|
भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
|
|
|||||||
पञ्चमः सर्गः
तमध्वरे विश्वजिति क्षितीशं नि:शेषविश्राणितकोषजातम्।
उपात्तविद्यो गुरुदक्षिणार्थी कौत्सः प्रपेदे वरतन्तुशिष्य:॥१॥
स मृण्मये वीतहिरण्मयत्वात् पात्रे निधायार्थ्यमनर्धशीलः।
श्रुतप्रकाशं यशसा प्रकाशः प्रत्युज्जगामातिथिमातिथेयः॥२॥
तमर्चयित्वा विधिवद् विधिज्ञस्तपोधनं मानधनाग्रयायो।
विशांपतिवष्टरभाजमारात् कृताञ्जलिः कृत्यविदित्युवाच॥३॥
अप्यग्रणीर्मन्त्रकृतामृषीणां कुशाग्रबुद्धे कुशली गुरुस्ते।
यतस्त्वया ज्ञानमशेषमाप्तं चैतन्यमुग्रादिव दीक्षितेन१॥४॥
कायेन वाचा मनसापि शश्वद् यत् संभृतं वासवधैर्यलोपि।
आपाद्यते न व्ययमन्तरायैः कच्चिन्महर्षेस्त्रिविधं तपस्तत्॥५॥
आधारबन्धप्रमुखेः प्रयत्नैः संवधतानां सुतनिर्विशेषम्।
कच्चिन्न वाय्वादिरुपप्लवो वः श्रमच्छिदामाश्रमपादपानाम्॥६॥
क्रियानिमित्तेष्वपि वत्सलत्वादभग्नकामा मुनिभिः कुशेषु।
तदङ्शय्याच्युतनाभिनाला कच्चिन्मृगीणामनघा प्रसूतिः॥७॥
निर्वय॑ते यैनियमाभिषेको येभ्यो निवापाजलयः पितृणाम्।
तान्युञ्छषष्ठाङ्कितसैकतानि शिवानि वस्तीर्थजलानि कच्चित्॥८॥
नीवारपाकादि कडङ्गरीयैरामृश्यते जानपदैर्न कच्चित्।
‘कालोपपन्नादिथिकल्प्यभागं वन्यं शरीरस्थितिसाधनं वः॥९॥
अपि प्रसन्नेन महर्षिणा त्वं सम्यग् विनीयानुमतो गृहाय।
कालो ह्ययं संक्रमितुं द्वितीयं सर्वोपकारक्षममाश्रमं ते॥१०॥।
--------------------------------
१. लोकेन चैतन्यमिवोष्णरश्मेः म, चैतन्यमर्कादिव जीवलोकः हे, ज्ञानं यतस्त्वां प्रविवेश पुण्यं चैतन्यमुंग्रादिव यायजूकम्पाठान्तरम् हे॥ उग्रः अष्टमूर्तेः शिवस्य मूत्तिभेदः। दीक्षितो यज्ञलग्नो यजमानः। दीक्षितो हि प्रथमं चेतनां जुहोति पुनः उग्रत् तां भजत इत्यागमः हे। द्र० अत्रैव ३।६६, ९।२१, शा० १।१.
|
|||||
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः

i 









